About Me

My photo
Passing through transition time phase our India needs that the vacuum between our traditional root value, heritage and modern young generation must be covered. As first Sanskrit E-Journal (Jahnavi Sanskrit E-Journal) a part of Sarsvat-Niketanam family is oriented to connect our new generation with this divine language which is the base of our root, identity & originality . To change public negative mindset towards of Sanskrit and to provide platform to creative thought and analysis related with Sanskrit on internet are our main priorities. For successful journey this mission expects a support of Sanskrit and Sanskriti lovers like you.

Tuesday, August 3, 2010

वर्षांकस्य कृते प्रकाशकीयम्

प्रकाशकीयम्
योजकस्तत्र दुर्लभः॥

विदाङ्कुर्वन्त्वेतद्विद्वांसो यत् असारे इहसंसारे व्याप्ताऽस्ति अनन्तोर्जा। कस्यचिदपि कार्यस्य सम्पादनार्थं योग्यपुरुषाणां अभावो नास्ति तथापि अधिकांशकार्याणि जटिलानि इव प्रतीयते। कथम्? एषः विचारणीय प्रश्नः। अस्माकं परम्परा निगदति यत्-
अमंत्रम् अक्षरं नास्ति। नास्तिमूलमनौषधिम्।
अयोग्यो पुरुषो नास्ति। योजकस्तत्र दुर्लभः॥
अभिप्रायः एषः यत् यदि समस्या अस्ति पुरतस्तु समाधानपि तत्रैव निहितः इति। अपि च एकं योजकं एकं सम्वयकं एकं नेतृत्वं बिना अखिला ऊर्जा वर्तन्ते विकीर्णा इव। समस्ता उपलब्धता निरर्थका इव भाति।
समस्या अस्माकं वैयक्तिक जीवनस्य भवेत् अथवा आराष्ट्रस्य, सर्वत्र एकस्य प्रकाशस्यानुपलब्धतायाः अनुभवः कर्तुं शक्यते। निस्सन्देहरूपे योजकः एव स निर्णायकबिन्दुरूप यतः सम्पूर्णं समूहं योजयितुं शक्तिः प्रवाहिता भवति। अनेनैव सम्यक्, उत्तरदायित्त्वस्य भावनायाः संचारः भवति तथा संयुक्तः प्रयासः कार्यरूपे परिणतिं प्राप्नोति।
एवम्प्रकारेण वयं एव समस्यारूपाः वयं एव समाधानरूपाश्च। आवश्यकता तु एतस्य अस्ति यत् वयं स्वकीयं दायित्त्वं स्वीकृत्य क्षितिजपारे प्रतीक्षारतां स्वर्णिमां नियतिं प्राप्तुं स्मुद्यताःभवामहः।
स्वकीयभूमिकायां सारस्वत-निकेतनम् इत्यस्यांगभूता जाह्नवी संस्कृत विद्युत् पत्रिका ग्रीष्मस्य शुष्कवातावरणात् निष्क्रम्य वर्षायाः सुरम्ये आह्लादकारिवातावरणे प्रवेशं कृत्वा शुष्कशोधविषयातिक्रम्य वर्षा इव मनोहारिकथागीतादि सर्जनात्मक सृजनसुधामंगी कुर्वन्ती अस्ति इत्यलम्।
सुरसरस्वतीसमुपासकः
बिपिन कुमार झा
प्रकाशकः

No comments:

Post a Comment