डॉ0 शशिकान्त द्विवेदी
असिस्टेन्ट-प्रोफेसर वैदिकदर्शनविभागे
संस्कृतविद्याधर्मविज्ञानसंकायः
काशीहिन्दूविश्वविद्यालयः
वाराणसी - 221005
मोबाईल नं. 09453313299
ेाकूपअमकप74@लंीववण्बवण्पद
प्रथमस्तावत् रसवसुमूर्तिकारस्य परिचयः आवश्यकः अतएव वस्तुविवेचनात् पूर्वं संक्षेपेण कथ्यते। वस्तुतः यथा लोके कोऽपि भानोः परिचिनोतुं वा॰छति तर्हि तस्य रश्मिः एव तस्य स्वयमेव परिचायकः भवति तथैव महागुरोः प्रोफेसर् चन्द्रमौलिद्विवेदिमहाशयस्य यशः रसरश्मिभूता इयं कृतिः संस्कृतजगति तनोति। तथापि सम्प्रति ते काशीहिन्दूविश्वविद्यालयस्य संस्कृतविद्याधर्मविज्ञानसœायस्य शिखरभूतसाहित्यविभागे विभागाध्यक्षरूपे कार्यरताः सन्ति। रसवसुमूर्तिग्रन्थस्य नाट्यारसविवेचनप्रकरणे प्रायः इतः पूर्वं या खलु समस्या पाठकानां वा सहृदयानां हृदि उत्पन्ना आसीत् तां सर्वां समाधातुं तथा च परिवर्तनशीलप्रवाहेऽस्मिन् संसारे यत्कि॰िचदत्र ग्रन्थे उपस्थापितं तत्तु न प्राचीनविलक्षणं किन्तु प्राचीनगह्नरान्तःनिपातास्फुटितार्थाधुनिकसमीक्षकाणां बुद्धानवभासितमिवावश्यं प्रतिभाति। संक्षेपेण स्थालीपुलाकन्यायवत् प्रतिपादयिष्यामि -
नाट्यस्याशब्दात्मकत्वं वा शब्दात्मकत्वमुभयात्मकत्वं वा
तत्र नटनीयमनुकरणीयमिति नाट्याम् दशरूपकम्। इति अभिनवः। अवस्थानुक‘तिर्नाट्यमिति इति दशरूपकम्। नाट्यमेव रूपकम् प्रेक्षकैर्द‘श्यत्वादथवा मुखे चन्द्रारोपवत् तदारोपात्। नाट्यव्युत्पत्तौ या अनुक‘तिः आरोपो वा सः शब्दात्मको वा शब्दात्मताव्यतिरिक्तः। नाट्यस्याशाब्दात्मकत्वमिति केचित्। अन्यथा ‘‘य इमं श्ा‘णुयात् प्रोक्तं नाट्यवेदम्’’ इति, ‘‘नाट्यशास्त्रं प्रवक्ष्यामि’’ इत्यादेश्चासंगतिः स्फुटैव स्यात्। अन्यथा नाट्यशब्देनैव नाट्यशास्त्रस्य संग्रहो भवेत् कुतो नाट्यस्य विशेष्यतया शास्त्र-वेदादिपदानामपादानं तदुपादाने नाट्यस्याशाब्दात्मकत्वं स्पþं भवति। अत एवोक्तम् भावप्रकाशे-
रामादितादात्म्यापत्तिर्नटे या नाट्यमुच्यते।
रूपकं तद् भवेद्रूप्ं द‘श्यत्वात्प्रेक्षकैरिदम्।।
रूपकत्वं तदारोपात्मकमारोपवन्मुखे ।। इति।
एड्ढु तादात्म्यापत्तिः, द‘श्यत्वं आरोपश्च ज्ञानात्मकत्वात् तैः शब्दात्मकत्वं निराक्रियते। अभिनवभारत्यामपि ‘‘नाट्यशास्त्रं प्रवक्ष्यामि’’ इत्यस्य व्युत्पादनायां नाट्य॰च तच्छास्त्र॰च इति व्युत्पत्तिप्रदत्वात् प्रवक्ष्यामि, व्याख्यास्ये। नाट्यस्य वेदं लक्षणतो निरूपयिष्ये इत्यर्थः। अत्रैव शœते। नाट्यस्य शब्दात्मताव्यतिरेकेण प्रवचनायोगात्। नाट्यस्य चाशब्दात्मकत्वात्। निरूपणमात्रे प्रवचने, ग्रन्थस्यापि प्रवचनोपपत्तेः। नाट्यस्य च प्रोच्यमानतयैवालाक्षणिकबाह्यस्वरूपनिरासलाभे शास्त्रशब्दानर्थक्यप्रस¯ात्। ‘‘य इमं श्ाृणुयात् प्रोक्तं नाट्यवेदम्’’ इतिशास्त्रान्ते यद्वक्ष्यते तस्यास¯त्यापत्तेः। शब्दविड्ढयताव्यतिरेकेण श्ाृणुयादित्यस्यावाचकत्वात्।
अन्ये तु - नटनीयमनुकरणं दशरूपकं नाट्यम् तस्येदं शास्त्रं। दशरूपकलक्षणमेव द‘श्यम्। एवं दशरूपकं कविना कार्यम्। एवं नटनीयमिति ग्रन्थतात्पर्यात् रसादीनां पदार्थानां तत्रैव पर्यवसानात्।
उभाभ्यामुदाहरणाभ्यां नाट्यस्याशब्दात्मकत्वं वा शब्दात्मकत्वमुभयात्मकत्वं वा विचारणीयमस्ति। तयोः प्रथमोद्धरणेनाशब्दात्मकत्वं द्वितीयोद्धरणेन दशरूपकाभिन्नत्वात् नाट्यस्य शब्दात्मकत्वमपि सुवचो भवति इत्यादिकं स्पþतया प्रतिपादितं आचार्यैः प्रो0 द्विवेदिभिः स्वग्रन्थे। पुनः तत्र कोऽयं रसः इति? इति जिज्ञासामुत्थाप्य, प्रश्नरूपेण विप्रतिपत्तिं प्रदश्र्य, समाधानमपि सम्यक्रूपेण कृतम्। तान् संक्षेपीकृत्य मया अत्र निवध्यते। यथा -
1. किं नाट्ये ये रसाः पठ्यन्ते ते रसाः? उताहो वैणाœिकादिभिरपि प्रस्तूयन्ते?
2. किं रसः सर्वेड्ढां नाट्यार्थानां प्रवर्तकः, उताहो सर्वोऽपि नाट्यार्थो रसानां प्रवर्तकः?
3. विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः इत्यस्य कोऽभिप्रायः।
अत्र विभावः, रामादिः अथवा रामादेरनुकर्ता नटः, उताहो नटे रामत्वमित्येव प्रतीति र्न नटत्वादेः? विभावः कारणं, लि¯म् वा? कस्य कारणं, स्थायिनो वा रसस्य? उभयोर्वा? लि¯त्वे सति कस्य लि¯म्। लि¯त्वेऽपि सत्यतया वाऽसत्यतया। लि¯स्यासत्यत्वे कथं लि¯िनो रत्यादेः सत्यतः सुखात्मकत्वम्? विभावस्य काव्यानुसन्धानं वा नेति। अनुकारः विभावे घटते वा न? अनुकारोऽपि वेड्ढस्य वा वस्तुव‘त्तस्य। सांख्यद‘शा किं सुखदुःखजननशक्तियुक्ता वाह्यसामग्री वा न? विभावः प्रत्यायकः, उत्पादकः अभिव्य॰जकः भावको वा? इत्यादिकं बहुधा विकल्प्य तस्योऽपरि शास्त्रीयं विवेचनं ग्रन्थकारेण कृतम्।
रससूत्रविवेचनम्
तत्र रससूत्रम् - ‘‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः’’। सूत्रेस्मिन् पदद्वयम्। द्वेऽपि पदे समस्ते। पूर्वं प॰चम्यन्तं द्वितीयं प्रथमान्तम्। समस्तपूर्वपदे पदचतुþयम्। उत्तरसम्मस्तपदे पदद्वयम्। प्रत्येकं पदं किमर्थकम्। विभक्तेश्च कीद‘शः अर्थः इति बहुधा बहुभिराचार्यैः प्रदर्शितम्। तत्र ‘‘हेतौ’’ इति सूत्रेण निर्दिþा प॰चमी विभक्तिः। तया अर्थप्रतिपादने ये ये हेतवः सम्भाव्यन्ते ते नैकाः। क्वचिद् अभिधा क्वचित् तात्पर्या, क्वचिदनुमितिः क्वचिद् भुक्तिः, क्वचिदभिव्यक्तिः, क्वचिद् दोड्ढविशेड्ढः। संयोगोऽपि सम्यग्योगतया विभावादिड्ढु त्रिष्वपि पदेड्ढु प्रत्येकं सम्भूय, स्वोत्तरोपात्तविभक्त्यर्थहेतुना सह योगं, नानाविधतया विधत्ते। एतेड्ढां सर्वेड्ढां योगः अनुपात्तस्थायिना सह दर्शितः। द्वितीयपदं रसोऽपि नैकविधः। यैर्यै र्हेतुभिः सह सम्बध्यते तथा तथात्मानं परिणमति। स सिद्धोऽपि व्यापाररूपोऽपि चर्वणारसनादिनाऽपि रसपदमुपचरितमित्यादिना नानाशेमुड्ढीभिः नानाप्रकारेण सूत्रस्यास्याभिव्याख्यानं विहितम्। यतो हि अयं नाट्यरसः, अतः नाट्याद्रसः नाट्यमेवरसः नाट्ये रसः, नाट्यमाश्रित्य रस इति बहुधा विभक्तः। तत्र सर्वेड्ढां मतानां दर्शनं आचार्यैः प्रो0 द्विवेदिभिः रसवसुमूर्तिनामके स्वग्रन्थे निबद्धम्।
तत्र सूत्रस्थविभावादिड्ढु प्रत्येकं रसः इति स्वीकुर्वद्भिः, शुद्धो विभावो रसः शुद्धोऽनुभावो रसः, शुद्धो व्यभिचारिभावो रसः तत्संयोगश्च रस इति विकल्प्यते। अत्र द्वन्द्वान्ते श्रूयमाणा या विभक्तिः सा प्रत्येकमभिसम्बध्यते, विभावाद्रसनिष्पत्तिः, अनुभावाद्रसनिष्पतिः, व्यभिचारिभावाद्रसनिष्पत्तिः तत्सयोगाद्र- सनिष्पत्तिः इति सूत्रं व्याख्याय, कार्यकारणयोरभेदोपचाराद् विभाव एव रस इत्यादिकं स्वीकृतम्। प्राचीनानां मतेड्ढु शुद्धविभावादिनाऽपि रसनिष्पत्तिर्दृश्यते यतोहि विभावादयः प्रत्येकं भावरूपाः। भावाच्च रसनिष्पत्तिर्दर्शिता। भावस्य सत्वे औपाधिकव्यनूपर्सगादिभिरुपाधिभिर्विभावानुभावादयो विभजितुं शक्याः। यथा-
केलीकन्दलितस्य विभ्रममधोर्धुर्यं वपुस्ते द‘शो-
र्भ¯ी, भ¯ुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः।
आध्यातोऽपि विकारकारणमहो वक्त्राम्बुजन्मासवः,
सत्यं सुन्दरि वेधसस्त्रिजगतीसारस्त्वमेका कृतिः।।
अत्र कामिनीरूपविभावो वर्णितः। नात्रायं विभावः अपि तु रसानुकूलभावमात्रत्वेन ग‘हीतः। अतः केली-विभ्रम-भङ्गुर-नर्म-वचोमहिम्ना अनुभाववर्गः, भ¯ी-क्रमविकारादिभ्यः औत्सुक्योन्मादचापलादि- व्यभिचारिभाववर्गः स्वयमेव परिकल्पयितव्यः। अत्र केवलं वाच्यो विभाव एव रसः। एवमेव केवलमनुभावस्योदाहरणम्।
यद्विश्रम्य विलोकितेड्ढु बहुशो निःस्थेमनी लोचने,
यद्गात्राणि दरद्रति प्रतिदिनं लूनाब्जिनीनालवत्।
दूर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः
कृष्णे यूनि सयौवनासु वनितास्वेड्ढैव वेड्ढस्थितिः।। इति
अत्र विश्रम्येत्यादिना विश्रान्तिलक्षणस्तम्भः विलोकनवैचि×यं गात्रतानवतारतम्यं पुलकविवर्णत्वादिश्चाऽनुभावो वर्णितः। आनुड्ढ¯िकतया कृष्णेत्यादिना विभावः, उक्तानुभावो, मोहादि- व्यभिचारिभावश्च विकल्पनीयः। केवलं व्यभिचारिणो यथा -
दूरादुत्सुकमागते विवलितं संभाड्ढिणि स्फारितं
संश्लिष्यत्यरुणं ग‘हीतवसने कि॰चा॰िचतभ्रूलतम्।
मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं,
चक्षुर्जातमहो प्रप॰चचतुरं जातागसि प्रेयसि।।
अत्रौत्सुक्यव्रीडाहड्र्ढकोपासूयाप्रसादानां च केवलानां व्यभिचारिणां स्थितिः। किन्तु अनुभावाभिव्यक्तत्वादनुभावानां, ‘‘मानिन्याः, प्रेयसि, पदाभ्यां, विभावस्यानुड्ढ¯िकतायाः स्वयमेवोपादानं भवति। अतः एतेड्ढु केवलं एकोऽपि रसः भवितुमर्हति। एकस्यैव काव्योपात्तत्वात्। अतः नाट्ये रस इति धिया एक एव नाट्यरसः।
केवलं तत्संयोगोऽपि रसः इत्येके। एतेड्ढामभिप्रायस्तु अनौचित्यादिना प्रव‘त्तो विभावादिर्न रसः, अपितु औचित्येन प्रव‘त्तेन विभावादिना स्थायी संयुज्यते अतः तत्संयोग एव रसः। अन्यथा विभावादौ कश्चनापि न रसः।
अतः उक्तं त्रिड्ढु यश्चमत्कारी स एव रसः अन्यथा त्रयोऽपि न इति। उक्त॰च ध्वन्यालोकलोचने- ‘‘अन्ये तु शुद्धं विभावं, अपरे शुद्धमनुभावं केचित्तु स्थायिमात्रं इतरे व्यभिचारिणम्, अन्ये तत्संयोगम् एके अनुकार्यम् केचन सकलमेव समुदायम् रसमाहुरिति’’।।
सूत्रे स्थायिभावस्यानुपादानेऽपि तस्यैव रसरूपतयास्वादने सर्वभरसहिष्णुत्वाद् रसरूपत्वे न कस्यचिद्विमतिः, स्थायिमात्रमेव रसः अनुकार्यमात्र॰च रसः इति अग्रे वितनिष्यते। अतः केवलं विभावादिड्ढु प्रत्येकं रसः इति मतेड्ढु सूत्रविरोधः न कल्पनीयः। एकस्यापि सम्यग्योगाच्चमत्काराच्च रसनिष्पत्तिर्भवितुमर्हति। भावरूपत्वेनैकेनान्यद्वयस्य भावरूपस्याक्षेप्तुं शक्यत्वात्।
त्रयाणां संयोगाद्रसनिष्पत्तिरिति स्वीकुर्वत्स्वाचार्येड्ढु प्रथमं अभिधया रसनिष्पात्तिरिति स्वीकारे आचार्यभट्टलोल्लटस्य मतं प्रतिपादयति ग्रन्थकारः -
अत्र रसपदेन यः स्थायिभावो ग‘हीतः स अनुभावं प्रति कारणमस्ति। अतोत्र हेत्वर्थक प॰चमीविभक्तेरुपादानमेतद्प्रतिपादयति यद् रसपदमिदं न केवलं स्थायिमात्रमपि तु उपचितस्थाय्यात्मकरसस्वरूपमपि प्रतिपादयति। अतः उपचितस्थायिभावात्मकरसं प्रति अनुभावस्य कारणत्वं, स्थायिनं भावं प्रति कार्यत्वमिति। रसोऽपि द्विविधः एको लौकिकः रामादिगतः द्वितीयश्य नटसामाजिकादिगतो अलौकिकः इति सुधीभिध्र्येयः। उक्तं रसम॰जरीकारेण - रसो द्विविधः, लौकिकः अलौकिकश्च। उक्त॰चाभिनवगुप्तेन-
‘‘विभावादिभिः संयोगोऽर्थात् स्थायिनस्ततो रसनिष्पतिः।’’ ‘‘विभावश्चित्तव‘त्तेः स्थाय्यात्मिकाया उत्पत्तौ कारणम्। अनुभावाश्च न रसजन्याः, अत्र विवक्षिताः तेड्ढां रसकारणत्वेन, गणनानर्हत्वात्’’। इति। रसकारणत्वं तु हेत्वर्थकप॰चमीविभक्त्युपादानाद्। इति स्पþम्। अतः स्थायिजन्या अनुभावा इति विव्रियते। अत्र नाट्ये रसः इति नाट्यरसो विव‘तः।
लोल्लटमतखण्डनम्
भट्टलोल्लटस्यास्य मतस्योत्थानं मुनिवचनेन रसवसुमूर्तिकारेण कृतम् -
‘‘रसपूर्वकत्वं भावानाम् भावपूर्वकत्वं रसस्य, विड्ढयविशेड्ढापेक्षया प्रयोगे ह्यनुकर्तरि रसानास्वादयतामनुकार्ये भावप्रतीतिरुत्पद्यते’’ इति।
मतेऽस्मिन् एतत्स्पþं यद् मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिधेयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रियते। साक्षात्कारश्च दुष्यन्तोऽयं शकुन्तलादिविड्ढयकरतिमान् इत्यादि। दुष्यन्तादिधम्र्यंशे लौकिकः आरोप्यांशे त्वलौकिकः।
सूत्रस्थरसनिष्पत्तिरित्यत्र रसस्य कोऽर्थः। चेत् स्थायिभावस्तदानीं विभावादिभिः स्थायिनिष्पत्तिरिति वक्तव्यम्। यदि उपचितस्थाय्यात्मक-रसनिष्पतिरिति तर्हि प्रþव्यम् स्थायी कुतो लब्धो भवद्भिर्येन सह विभावादीनां यथोचितं योगः स्वीक्रियते। विभावादिसंयोगात् स्थायी प्रतीतश्चेत् तदानीं संयोगस्य लि¯त्वमर्थः कार्यः। केवलं हेतोर्वाच्यत्वेऽपि साध्यस्य प्रतीतिरिþा । यतो ह्युक्तम् -
तद्भावहेतुभावौ हि द‘þान्ते तदवेदिनः।
ख्याप्येते, विदुड्ढां वाच्यो हेतुरेव च केवलः।।
अतोऽत्र हेतुत्वेन विभावादेरुपादानात् साध्यत्वेन स्थायिनो बोधो निर्विवादः। तत्तु भवद्भिर्न स्वीकृतम्। सूत्रे स्थायिनोऽनुपादानान्न साक्षात् विभावादियोगः, तदयोगे स्थायिनो लाभाय, संयोगस्य लि¯त्वमर्थः स्वीकार्यः अन्यथाऽवगत्यनुपपत्तिः। अतः उच्यते ‘‘विभावाद्ययोगे स्थायिनो लि¯ाभावेनावगत्यनुपपत्तेः’’ इति।।
चेद् रसेन स्थायी उच्यते तर्हि स्थायिनो भावत्वाद्, भावानां च रसात् पूर्वामिधानोपयुक्तत्वात्, तस्यापि पूर्वाभिधेयताप्रस¯ात्। अतः उच्यते - ‘‘भावानां पूर्वाभिधेयताप्रस¯ात्’’। इति
चेद् विभावादिभिः संयोगोऽर्थात्स्थायिनस्ततोरसनिष्पत्तिरिति तदानीं संयोगस्य उत्पत्तिरेवैकोऽर्थः विधातव्यः न तु प्रतीत्यादिः। यतोहि मुनिराह- ‘वीरो नामोत्तमप्रक‘तिरुत्साहात्मकः। स चासंमोहाध्यवसाय- नयविनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते’ इति। पुनश्च स्थायिभावानुवादे तु उत्साहो नामोत्तमप्रकृतिः। स चाविड्ढादशक्तिसौन्दर्यादिभिर्विभावैरुत्पद्यते इति। न चोत्पत्तौ विभावादिपदार्थानां कारणत्वमभिधाय, पुष्यतां पुनः तेड्ढां, पोड्ढोत्पत्तिकारणमभिधातव्यम् वैयथ्र्यापत्तेः। यतो हि रसलक्षणे विस्तरशो विभावा, भावलक्षणे अल्पशो विभावा, मुनिनोपात्ताः स्वयमेवोपचितत्वं रसलक्षणे प्रदर्शयन्ति। अतः पोड्ढकत्वादिलक्षणवैयथ्र्यापत्तेः। अतः उक्तं ‘‘स्थितदशायां लक्षणान्तरवैयथ्र्यात्’’ इति।
यदि च अनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्यैव स्थायिभावस्य अनुपचितावस्थाघटकमन्द-मन्दतर-मन्दतम-मन्दमध्येत्यादिविशेड्ढापेक्षया आनन्त्यापत्तिः, एव॰चोपचिता- वस्थाघटकतीव्रतीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रपद्यते। अत उक्तं- ‘‘मन्दमन्दतरमन्दतम- मन्दमध्याद्यानन्त्यापत्तेः’’ इति। माध्यस्थ्य- इति पाठश्चिन्तनीयोऽभिनवभारत्यां निर्दिþः।
चेत्, उपचयकाष्ठां प्राप्त एव रस उच्यते तर्हि स्मितमवहसितादिकैः ड्ढोढात्वं हास्यरसस्य कथं भवेत्? अतः उक्तं- ‘हास्यरसस्य ड्ढोढात्वाभावप्राप्तेः’। तथाहि, अभिलाड्ढार्थचिन्तनानुस्म‘ति गुणकीर्तनोद्वेगविलापोन्मादव्याधिजडतामरणेड्ढु दशसु कामावस्थासु दशसंख्याताः श्ा‘¯ाररतिभावादयः प्रस॰जेरन्। अतः उक्तं- ‘‘कामावस्थासु दशसङ्ख्यरसभावादिप्रस¯ात्’’ इति।
शङ्कुकमतम्
शङ्कुकमतस्य वैशिþ्îां रसवसुमूर्तिकारेण एवं प्रतिपादितम्। सूत्रे यत् स्थायी नोपात्तः, तेनेदं स्पþीक्रियते यत् स्थायी सर्वथा नाभिधेयः अपितु अभिनेय एव, अतः काव्यबलादपि नानुसन्धीयते इति। अभिनेयत्वेन गम्यत्वं तेन संयोगस्य लि¯लि¯िभावोऽर्थः स्पþो भवति। यत्तु, वाचोपस्थाप्यते तदभिधेयतामवगाहते यत्तु वाचिकाभिनयेनाभिनीयते तत्तु नाभिधीयते अपितु अभिनीयते। अतः न वागेव वाचिकम्, अवगमनशक्तिर्हि अभिनयनवाचकत्वादन्या। अतः
‘वाडवेनेव जलधिः शोकः क्रोधेन पीयते’
‘शोकेन कृतः स्तम्भः’ इत्यादौ शोको नाभिनेयः अपि त्वभिधेयः।
‘भाति पतितो लिखन्त्याः तस्या वाष्पाम्बुशीकरकणौघः।
स्वेदोद्गम इव करतलसंस्पर्शादेड्ढ मे वपुड्ढि’।।
इत्यत्र स्वार्थमभिदधता वाक्येन उदयनगतः सुखात्मा रतिः स्थायीभावोऽभिनीयते न त्वभिधीयते उच्यते वा। अतः स्थायिपदं सूत्रे भिन्नविभक्तिकमपि नोक्तम्। तेन क‘त्रिमा अपि रतिः अनुक्रियमाणा, श्ा‘¯ार इति। इत्थं श्ा‘¯ारोऽनुक्रियमाणरत्यात्मकः अथवा अनुक्रियमाणरत्युद्भूतः।
ननु कथं क‘त्रिमत्वेन प्रतीता रतिर्मिथ्यात्वेपि अनुक्रियमाणत्वेन सुखादिविशेड्ढार्थक्रियां जनयतीति? उच्चते। मिथ्याज्ञानादपि अर्थक्रिया द‘þाऽस्ति यथा -
मणिप्रदीपप्रभयोर्मणिबुद्धयाभिधावतोः।
मिथ्याज्ञानाविशेड्ढेऽपि विशेड्ढोऽर्थक्रियां प्रति।।
मरकतकुट्टिमपतितयोर्मणिप्रदीपाभ्यामुद्भूतयोद्र्वयोः प्रभयोः कयोश्चिद् द्वयोर्जनयोर्मणिबुद्धिर्जायते। अमणिभूतप्रभयोर्मणिबुद्ध्याभिधावतोरुभयोरपि जनयोः समानतयैव मिथ्याज्ञानं तिष्ठति। किन्तु यो मणिप्रभां मणिमवगत्य धावति सः उपप्रभं मणिं प्राप्नोति, यस्तु दीपप्रभां मणिमवगत्य धावति स मणिं न लभते अतः अर्थक्रियां प्रति विशेड्ढो भवति।
इत्थं यथा प्रभायां मणित्वेन भिथ्याज्ञानादपि (अर्थक्रिया) मण्युपलब्धिरूपार्थक्रिया तथैव क‘त्रिमत्वेन विभावादौ मिथ्याकारणादिज्ञानादपि सुखविशेड्ढरामादिगतरत्यादिरूपार्थक्रिया लभ्यते।
यः खलु अनुकर्ता नटः, तत्र, नट एव, सुखी राम इति सम्यक् प्रतिपत्तिर्न भवति। न च अयमेवराम इति मिथ्याप्रतिपतिः। न च अयं न सुखीति, रामः स्याद्वा न वायमिति संशयप्रतिपत्तिः, न चापि रामसद‘श इति साद‘श्यप्रतिपत्तिः, अपितु सम्यङ्मिथ्यासंशयसाद‘श्यप्रतिपत्तिभ्यो विलक्षणा ‘‘यः सुखी रामः, असावयमि’’ ति चित्रतुरगादिवत्प्रतीतिर्भवति। अत आह -
प्रतिभाति न सन्देहो न तत्वं न विपर्ययः।
धीरसावयमित्यस्ति नासावेवायमित्यपि।
विरुद्धबुद्ध्यसंभेदादविवेचितविप्लवः।
युक्त्या पर्यनुयुज्येत स्फुरन्ननुभवः कथम्।।
अत्र बुद्ध्यसंभेदात् इत्येव पाठः काव्यप्रकाशे साहित्यचूडामणौ लभ्यते न बुद्धिसम्भेदादिति। ‘‘कया’’ इत्यस्य स्थाने कथमितिपाठः। अस्यायमभिप्रायः - रामोऽयमिति नटे प्रतिपत्तौ न सन्देहः न तत्वं (सम्यक्) न विपर्ययः (मिथ्या) प्रतिभाति न, च असौ, अयम्, न, असौ एवायम्’’ इति धीः, इत्थं विरुद्धबुद्धेरसम्भेदात् चित्रतुरगादिन्यायेन ‘‘यः सुखी रामः असावयमिति धिया (विप्लवः) अबोधितविघ्नः अनुभवश्चेतसि स्फुरन् कथं प्रमाणेन पर्यनुयोजनीयः ? अर्थात् अनुभवः, प्रमाणेन युक्त्या वा सर्वथा न प्रमितव्य इतिभावः। मुख्यरामादिगतस्थाय्यनुकरणरूपो रसः। अनुकरणरूपत्वादेव स्थायिभिन्ननामान्तरेण रसेन व्यपदेशः। इति।
शङ्कुकमतखण्डनम्
अत्र अनुकारः कः। अनूपपदस्य अर्थद्वयं सम्भाव्यते साद‘श्यं पश्चाच्च। तत्र चेत् साद‘श्यार्थस्तदानीं सद‘शकरणमित्यर्थोऽनुकारस्य। मुख्यरामादिगतरत्यादिसद‘शकरणं केन सम्भाव्यते। विभावानुकरणेन अनुभावानुकरणेन, भावानुकरणेन अथवा एतदनुमितरत्यादिना मुख्यरामादिरत्यनुकरणेनेति। अत्रानुकरणमपि सामाजिकप्रतीत्यभिप्रायेण, नटाभिप्रायेण वस्तुव‘त्तविवेकव्याख्यात‘बुद्ध्यभिप्रायेण। तत्र नटाद्यभिप्रायेण सद‘शकरणे विभावस्य त्रयो दोड्ढाः। नाट्यं हास्याय भवतीत्याद्यः, नोपदेशप्रयोजनायेति द्वितीयः, रामादेर्विभावस्याप्रत्यक्षत्वमिति त‘तीयः।
चित्तव‘त्तिरूपरत्यनुकरणाय नटगतानुभावः कारणं मन्येत चेत्, तन्न। नटगतानुभावस्य बाह्यत्वाद्जडत्वेन, बाह्येन्द्रियग्राह्यत्वेन, चित्तव‘त्तिरूपरत्यादेर्भिन्नाधिकरणत्वेन च ततोऽतिवैलक्षण्यात् कथं अनुभावेन चित्तव‘त्यनुकरणं सम्भाव्यते। ‘‘मुख्यानुकार्यावलोकनेन च तदनुकरणप्रतिभासः,’’ न केचनापि रामगतां रतिमुपलब्धपूर्विणः। अतः न रत्यनुकारः सम्भवति। रामानुकारो नट इत्यपि निरस्तः प्रवादः।
तथा च सामाजिकेष्वेव नटगता चित्तव‘त्तिरेव प्रतिपन्ना सती रत्यनुकारः श्ा‘¯ारइत्युच्यते तत्रापि किमात्मत्वेन सा प्रतीयतइति चिन्त्यम्। यदि प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यैधर्‘त्यादिभिः सहचारिभिर्लि¯भूतैर्या लौकिकी कार्यरूपा, कारणरूपा, सहचारिरूपा च नटगता चित्तव‘त्तिः प्रतीतियोग्या तर्हि रत्याकारेणैव सा प्रतिपन्ना न तु रत्यनुकारेणेति दूरे रत्यनुकरणतावाचोयुक्तिः।
ननु विभावादयोऽनुकार्ये पारमार्थिकाः। तत्कारणता अनुकर्तरि नटे न तथा, अतएव तत्प्रतीयमानं रत्यनुकरणबुद्धेः, कारणम् इति चेत् तत्र प‘च्छ्यते, अतत्कारणादिरूपा अपि विभावादयः काव्यशिक्षादिबलोपकल्पिताः क‘त्रिमाः सन्तोऽपिसामाजिकैः क‘त्रिमत्वेन ग‘ह्यन्ते नवा? यदि ग‘ह्यन्ते तदा कथं तैर्मिथ्याभूतैर्लि¯ै रतेरवगतिः। इत्यादिकमुत्थाप्य ग्रन्थकारेण सम्यक् विवेचितम्।
चेद् रामोऽयमिति प्रतीत्यां सम्यग्मिथ्यासंशयसाद‘श्यादि-विरुद्धबुद्धीनामसंभेदाय चित्रतुरगादिन्यायो स्वीक‘तस्तदपि न युक्तम्। रामोऽयमिति प्रतिपत्तिः तत्काले (नाट्यर¯काले) जातेेऽपि तदुत्तरकालभाविबाधकस्य जागरूकत्वात् कथं न नटात्मकतत्वज्ञानं भवति। अथवा बाधकप्रत्यक्षादिसद्भावेऽपि कथं न ‘‘रामोऽयमिति’’ ज्ञानं मिथ्या भवति। वस्तुलभ्यनटत्वेन व‘त्ते ज्ञाने न यावद् नटत्वबुद्धिबाधकस्योदयः तावद् रामत्वेन मिथ्याज्ञानमेव तत्र स्यात्। तेन रामोऽयमिति प्रतिपत्तावपि विरुद्धबुद्धिसंभेदः अस्त्येव कथं च विरुद्धबुद्धîासंभेदादविवेचितविप्लव’’ इत्युच्यते। तस्मिन्नर्तक इव नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिर्भवति, अतः रामत्वं सामान्यमायातम् न विशेड्ढरामाभेदप्रतिपत्तिर् इति । तदात्वे रामत्वेन निश्चितं ज्ञानमुत्तरकाले बाधकवैधुर्याभावात्तत्वज्ञानं, (प्रत्यक्षादि) बाधकसद्भावे मिथ्याज्ञानं, निर्बाधवस्तुज्ञाने, मिथ्याज्ञानमेवेति विरुद्धभेदसंभेदः। कथमुच्यते विरुद्धबुद्ध्यसंभेद इति।
तथा यदुक्तं विभावाः काव्यादनुसंधीयते अनुभावः शिक्षात, इति। तत्र कीद‘शमनुसन्धानम्? नटस्य ममत्वेनेति न, नहि नटस्य ‘‘ममेयं सीता काचित्’’ इति स्वात्मीयत्वे प्रतिपत्तिः। यदि सामाजिकस्यैताद‘शी प्रतिपत्तिरित्यात्मकमनुसंधानम् तर्हि स्थायिन्यपि अनुसंधानं निर्बाधमेव। अनुसंहितस्यैव स्थायिनः मुख्यत्वे रामत्वेनानुसंहिते नटे मुख्यस्थायीति’’ सामाजिकानां प्रतिपत्तिः सुनिश्चिता। तस्मात् सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत्। इत्येतत्पर्यन्तं सामाजिकप्रतीत्यभिप्रायेणेति यत्प्रथमपक्ष उद्दिþस्तस्योद्घाटनं ग्रन्थकारेण गुरुणा प्रो0 चन्द्रमौलिद्विवेदिना क‘तम्।
पुनः नटाभिप्रायेण तु अनुकारविड्ढये निष्कड्र्ढरूपेणैतद् प्रतिपादितमाचार्येण - प्रथमं तु नटो न रामादेः प्रक‘तिं पूर्वमुपलब्धवान् यस्याः सद‘शं कुर्यात्। पश्चात्करण॰चेत् अनुकरणं ग‘ह्येत तर्हि लोकेऽपि अतिव्याप्तिः स्यात्। लोकेऽपि पश्चात्करणस्य सत्वात्। चेद्रामादेर्विशेड्ढस्य त्यागपूर्वकं केवलमुत्तमप्रक‘तेः समान्यस्य शोकानुकारो न तु नाट्यवेड्ढाद्यनुकार इत्युच्येत तदपि न। यतोहि शोकस्यानुकारः न शोकेन कर्तुं शक्यते अमूत्र्तत्वात्। न च नटे शोकोऽस्ति कथ॰च शोकानुकारः संभवेत्। चेत् शोकानुभावेनाश्रुपातादिना शोकानुकारः तदपि न। नहि अमूर्तस्य मूर्तेनानुकार सम्भवः। ये शोकानुभावास्ताननुभावैरेवानुकरोमीति चेद् विशेड्ढरूपेण रामादिं विना अनुभावानुकरणं न संभवति। चेत् सामान्यादिना रोदनादेरनुभावरूपानुकरणं तर्हि विना विशेड्ढं न सामान्यमिति सामान्ये नटस्यापि प्रवेशात् कथं स्वानुभावस्यैव स्वेनानुकरणं सम्भवेत् इति गलितोऽनुकार्यानुकतर्‘भावः। चित्तव‘त्तिसाधारणीकरणभावेन हृदयसंवादात्केवलमनुभावान् प्रदर्शयन् नटश्चेþत इत्येतावन्मात्रे नानुकारो घटते, यतोहि नात्र यथा कान्तया कान्तवेड्ढानुकारः न तथा रामचेþितस्यानुकारः। न च वस्तुव‘त्तस्याप्यनुकारः। यतो हि अनुसंवेद्यमानत्वेन स्थितेनामूर्तवस्तुना वाह्यवस्तुव‘त्तत्वानुकरणानुपपत्तेः। स्थाय्यनुकरणं रसा इति यदुच्यते तत्र न मुनिवचनं न मुनिवाक्यादनुमानमेव लभ्यते, प्रत्युत धुवागानादि, नानुकरणे लि¯म् अपितु वस्तुतत्व एव। सामान्यानुकरणेन न विशेड्ढानुकरणं बोद्धंु युक्तमतः सप्तद्वीपानुकरणम् इत्युक्त्यापि विशेड्ढकान्तवेड्ढगत्यनुकरणावबोधो न युक्तः। यच्चोच्येत भावानुकरणम् (‘‘नाट्यं भावानुकीर्तनमिति’’) रसा इति तदपि न। भावाः वर्णकस्थानीयाः। सूत्रस्थ ‘संयोग’ इत्यस्य संयुज्यमानत्वेन ग्रहे, वर्णकैः संयुज्यमानः यथा गौस्तथा भावैः संयुज्यमानः स्थायीति लभ्यते। तत्र संयुज्यमानस्य यदि अभिव्यज्यमान इत्यर्थोऽभिप्रेतः तदसत्। यतोहि यथा दीपैरभिव्यक्तं पारमार्थिकं वस्तु व्यज्यते न तथा सिन्दूरादिवर्णकैरभिव्यक्तं पारमार्थिकं गवादिवस्तु। केवलमत्र गोसद‘शः, सिन्दूरादिसमूहविशेड्ढ एव निर्वत्र्यते। अत एव अ¯ादिसन्निवेशविशेड्ढणावस्थिताः सिन्दूरादयो गोसद‘गिति प्रतिभासस्य विड्ढयः। किमेवं रत्यादिसद‘शताप्रतिपत्तिग्राह्यः विभावादिभावः वक्तुं शक्यः। अतो न भावानुकरणं रसाः इत्युक्तम्।
भट्टनायकमतम्
भट्टनायकस्तु - ‘‘रसो न प्रतीयते नोत्पद्यते नाभिव्यज्यते’’ इति। तत्र प्रतीतिर्नाम बोधः। सा च शब्दतः श्रुत्याः स्मृतेः अनुमित्या वा। आभिःस्वगतत्वेन रसप्रतीतौ करुणे सामाजिकस्य दुःखित्वसम्भवः, आत्मगतत्वे सीतादौ स्वकान्तास्मृतेरपेक्षेति स्वकान्तास्मृत्यसंवेदनाद् नात्मगतत्वम्। देवतादौ साधारणीकरणत्वस्यानौचित्यात्। समुद्रलङ््घनादेरसाधारण्यात्। न च तद्वतो रामस्य स्मृतिः रामस्य प्रत्यक्षत्वेनानुपलब्धत्वात्। शब्दानुमानाभ्यां रसप्रतीतौ लोकेऽपि रसप्रतीतिसम्भवः। तथा शाब्दानुमानाभ्यां तटस्थस्यैव विड्ढयस्य प्रतीत्या अनुभवस्मृत्यादिरूपा प्रतीतिःरसस्य न युक्ता। शब्दानुमानाभ्यां प्रमाणाभ्यां नायकयुगलकरत्याद्यवभासे प्रत्युत सामाजिकानां लज्जाजुगुप्सास्पृहादिस्वोचितचित्तवृत्यन्तरोदयः यद्व्यग्रतयाऽरसत्वमपि स्यात्। अतः अनुभवस्मृत्यादिरूपा प्रतीतिः नोचिता।
रसो नोत्पद्यते यतोहि शक्तिरूपत्वेन पूर्वं स्थितस्य पश्चादभिव्यक्तिरूपोत्पत्तौ (सांख्यदृशा) विड्ढयसामग्रीगततारतम्यादिना रसगततारतम्याद्यापत्तिः। स्वगतत्वेन प्रतीतौ तु करुणे दुःखित्वं, परगतत्वेन प्रतीतौ ताटस्थ्यमिति स्वगतपरगतत्वेनापि पूर्ववद् विकल्प्यम्। तस्मात् -
काव्ये दोड्ढाभावगुणालœारमयत्वलक्षणेन नाट्ये चतुर्विधाभिनयरूपेण निविडनिजमोहसंकटहारिणा विभावादिसाधारणीकरणात्मनाऽभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्म‘त्यादिविलक्षणेन रजस्तमोऽनुवेधवैचि×यबलाद् द्रुतिविस्तारविकासलक्षणेन सत्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यते। यथोक्तम्-
अभिधा भावना चान्या तद्भोगीक‘तमेव च।
अभिधाधामतां याते शब्दार्थालङ्कृती ततः।।
भावनाभाव्य एड्ढोऽपि श्ा‘¯ारादिगणो मतः।
तद्भोगीक‘तरूपेण व्याप्यते सिद्धिमान्नरः।। इति।
अत्रायं सारांशः - अभिधया विभावादयः (कारणादयः) प्रतिपाद्यन्ते। अभिधोक्तविभावाः यथाश्रुतरामादिनोपस्थीयन्ते। पश्चाद् अभिधातो द्वितीयेन (लक्षणात्मकेन) भावकत्वव्यापारेण सम्बन्धविशेड्ढ- परिहारादिपूर्वकसाधारणीकरणात्मना रस
शास्त्रेषु मन्वन्तराणि
नीरज त्रिवेदी
शोध छात्र, ज्योतिष विभाग,
काशी हिन्दू विश्वविद्यालय, वाराणसी
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम्।।
इत्युक्तलक्षणेन पुराणेषु सृष्टिप्रलययोर्वर्णनम्, ऋषीणां राज्ञां च वंशविस्तार:, वंशानुचरितवर्णनं पुराणानां प्रतिपाद्यम्। ४,३२,००,००,००० वर्षं यावत् सर्ग: प्रवर्तते। महत्तमेऽस्मिन् काले लोकेषु घटनाक्रमातिशय्यं भवत्येवेति तासां घटनानां कालबोधार्थमेव मन्वन्तरविज्ञानं पुराणलक्षणेषु निहितम्। अनयैव कालबोधपद्धत्या पुराणप्रोक्तानां सर्गप्रतिसर्गाणाम्, ऋषीणाम्, राज्ञां च वंशानाम्, अवताराणाम्, विविधानां देवासुरादियुद्धानां च समय: सूच्यते। विष्णुपुराण, श्रीमद्भागवते तथा वायवीये पुराणे च मन्वन्तराणां विस्तरेण वर्णनमुपलभ्यते। मन्वन्तरबोधार्थं कालस्य सूक्ष्मतमविभागात् प्रारभ्य ब्रह्मायु: पर्यन्तं समयो निरूपित:। अधस्तात् तालिकायां सूर्यसिद्धान्तोत्तंâ विष्णुपुराणोक्तम्, श्रीमद्भागवतोत्तंâ च कालस्वरूपं प्रदश्र्यते।
२ परमाणु · १ अणु:
३ अणव: · १ त्रसरेणु:
३ त्रसरेणव: · १ त्रुटि:ड१़
१०० त्रुटि: · १ वेध:
३ वेधा: · १ लव:
३ लवा: · १ निमेष:
३ निमेषा: · १ क्षणम्
१५ निमेषा: · १ काष्ठा
५ क्षणानि · १ काष्ठा
१५ काष्ठा: · १ लघु:
१५ लघव: · १ नाडिका
३० काष्ठा: · १ मुहूर्तम्
२ नाडिके · १ मुहूर्तम्
७१/२ नाडिका: · १ याम: (प्रहर:)
३० मुहूर्तानि · १ अहोरात्रम्
८ प्रहरा: · १ अहोरात्रम्
१५ अहोरात्रम् · १ पक्ष:
३० दिनानि · १ मास: (२ पक्षौ)
२ पक्षौ · १ मास:
१ मास: · १ पितृ-अहोरात्रम्
२ मासौ · १ ऋतु:
६ मासा: · १ अयनम्
३ क्रतव: · १ अयनम्
२ अयने · १ वर्षम्
२ अयने · १ वर्षं (देवानामेकमहोरात्रम्)
१ वर्षम् · दिव्याहोरात्रम्
१ वर्षम् · १ देवाहोरात्रम्
३० दिव्याहोरात्रम् · १ दिव्यमास:
१२ दिव्यमासा: · १ दिव्यवर्षम्
१२ सहस्रदिव्यवर्षाणि · १ चतुर्युगम्
१२ सहस्रदिव्यवर्षाणि · १ चतुर्युगम्
युगम्- समय: सन्ध्या सन्ध्यांश:
कृतम्- ४००० ४०० ४००
त्रेता- ३००० ३०० ३००
द्वापर:- २००० २०० २००
कलि:- १००० १०० १००
१ सहस्रं चतुर्युगानि · १ ब्राह्मदिवस:-
१सहस्रं चतुर्युगानि·१ब्राह्मदिवस: (१कल्प:)
१ ब्राह्मदिवस: · १४ मन्वन्तराणि-
१ ब्राह्मदिवस: · १४ मन्वन्तराणि
साधिवंâ ७१ चतुर्युगम् · १ मन्वन्तरकाल:- (७१६/१४)
१ मन्वन्तरकाल: · ७१ चतुर्युगात् किञ्चिदधिकम् (७१६/१४)
८ लक्ष: ५२ सहस्रदिव्यवर्षाणि
३० कोटि: ६७ लक्ष: २० सहस्रमानववर्षाणि
दिव्यशतवर्षाणि · ब्रह्मायुर्भवति
ब्राह्मदिवसैब्र्रह्मण:
शतवर्षायु:
१ ब्राह्मशतवार्षिकी· श्रीहरेरेको निमेषो भवति।
उपर्युक्तायामस्यां सरण्यां विष्णुभागवतपुराणीयं कालस्वरूपं स्पष्टीकृतम्। द्वयोरपि वर्णनक्रम एक एव। विंâ च विष्णुपुराणे निमेषत: प्रारभ्य ब्रह्मायु: पर्यन्तं कालक्रम: प्रदर्शित:। भागवते वैशिष्ट्यं वर्तते। तत्र कालस्य य: सूक्ष्मतमोंऽश: परमाणु:, तत: प्रारभ्य भगवत: श्रीहरेर्निमेषपर्यन्तं परिगणितम्। परमाणु-अणु-त्रसरेणु-त्रुटि-वेध-लव-इत्यादय: सूक्ष्मप्रभेदा निमेषात् पूर्वं निरूपिता:। अयं सूक्ष्मतमभेदस्तु विष्णुपुराणे न प्राप्यते। क्षण-लघु-नाडिका-याम-प्रहरादिभेदा अपि भागवते निमेषात् पश्चान्निरूपिता:। विष्णुपुराण एतेषां विवरणं नास्ति। ब्रह्मायुषोऽन्ते भगवतो हरेरेक: निमेषो भवतीति भागवते विवेचितम्। विष्णुपुराणीय एव विषयो भागवते विस्तारित:। तथा च विष्णुपुराणे मन्वन्तरकालपरिगणने उक्तम्-
चतुर्युगानां सङ्ख्याता: साधिका ह्येकसप्तति:।
मन्वन्तरं मनो: काल: सुरादीनां च सत्तम।।ड२़
भागवेऽपि च- ‘‘स्वं स्वं कालं मनुभुङ्त्तेâ साधिकां ह्येकसप्ततिम्’’ड३़ इति।
द्वयोरपि पुराणयोरिदं स्वष्टं नास्ति यत् ‘साधिका’ शब्देन कियत् परिमाण: काल: ग्राह्यो भविष्यति। अन्येष्वपि पुराणेष्वयं विषयश्चर्चित एव। वायुपुराणे च-
एवं चतुर्युगाख्या तु साधिका ह्येकसप्तति:।
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्ये।।
मन्वन्तरस्य सङ्ख्या तु वर्षाग्रेण निबोधत।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्तिता:।।
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु।
विंशतिश्च सहस्राणि कालोऽयं सन्धिवंâ विना।।ड४़
विष्णुवायुपुराणयोरत्र साम्यं विद्यते। वर्षाणां त्रिंशत्कोट्य: सप्तषष्टिनियुतानि विंशत्सहस्राणि भवन्त्येकस्मिन् मन्वन्तरकाले।
परं च द्वयोर्मन्वन्तरयोर्मध्ये य: सन्धिरूप: समय: प्रोक्त:, तं त्यक्त्वेयं गणनाकृता। अतश्चतुर्दशमन्वन्तरकालेषु ९९४ चतुर्युगं सामान्यकालो भवति। अवशिष्टं षड्युगं सन्धिकाल:। विष्णुपुराणस्योपर्युत्तेâ श्लोके श्रीधरीटीकायाम्- ‘‘चतुर्युगसहस्रप्रमाणस्य ब्रह्मदिनस्य चतुर्दशधा विभागे प्रतिविभागमेकसप्ततिश्चतुर्युगानि भवन्ति। अवशिष्यन्ते चतुर्युगषट्कान्तरस्य चतुर्दशांशो यथागणित: प्रतिमन्वन्तरमेकसप्ततेरधिक इत्यर्थ:’’, ‘साधिका ह्येकसप्तति:’ इति पाठस्येयं व्याख्या कृता। सूर्यसिद्धान्तमते प्रत्येकस्मिन् मन्वन्तरे एक: सन्धिकाल: कृतयुगमानसमो (४८०० दिव्यवर्षाणि) भवति। तथा प्रत्येकस्मिन् कल्पारम्भेऽपि तथैव सन्धिर्भवति। इत्थं चतुर्दशमन्वन्तर-सन्धिकालस्तथैक: कपादिसन्धिकाल:, द्वयोर्योग: पञ्चदशसन्धिकाल: षण्महायुगसमो भवति। अयमेव साधिकाशब्दस्याभिप्राय:। तथा चोत्तंâ सूर्यसिद्धान्ते-
युगानां सप्तति: सैका मवन्तरमिहोच्यते।
कृताब्दसङ्ख्या तस्यान्ते सन्धि: प्रोक्तो जलप्लव:।।
ससन्धयस्ते मनव: कल्पे ज्ञेयाश्चतुर्दश।
कृतप्रमाण: कल्पादौ सन्धि: पञ्चदशस्मृत:।।ड५़ इति।
मन्वन्तरकालगणनायां पुराणै: सन्धिकालस्य पृथक्करणमुचितमेव। यतो मन्वन्तराणि चतुर्दश, सप्धयास्त्वाद्यन्तं गृहीत्वा पञ्चदश भवन्ति। (कल्पारोऽप्येक: सन्धिकालो भवति, स एव प्रथम: सन्धिकाल:। मन्वन्तरकालेन सहैव सन्धिकालगणनायां दोष: समायाति।) अत एव पुराणेषु ‘साधिका ह्येकसप्तति:’ इत्युत्तेâऽपि सन्धिकालं पृथक्कृत्वैव मन्वन्तरकालपरिगणनाकृता। पुराणोत्तंâ मन्वन्तरकालविवेचनं ज्यौतिषसाक्ष्यादपि यथार्थं प्रतिभाति।
मन्वन्तराणि- चतुर्दशमन्वन्तराणां नामानि विष्णुपुराणेड६़ एवं प्राप्यते- स्यायंभुवमनु:, स्वारोचिषमनु:, उत्तम:, तामस:, रैवत:, चाक्षुष:, वैवस्वत:, सावर्णि:, दक्षसावर्णि:, ब्रह्मसावर्णि:, धर्मसावर्णि:, रुद्रसावर्णि:, रुचि:, भौम:।
भागवतेऽपि एतान्येव मन्वन्तराणि प्राप्यन्ते, किन्तु त्रयोदशसङ्ख्यानं ‘देवसावर्णि:’ चतुर्दशं च ‘इन्द्रसावर्णि:’ इतिड७़ प्रोक्तम्। अन्येष्वपिपुराणेषु विष्णुपुराणोक्तान्येव मन्वन्तराणि प्रोक्तानि, किन्त्वन्तिमं नामद्वयं सर्वत्र वैभिन्येन दृश्यते। यथा वायु-मत्स्य-मार्वâण्डेयादिषु रौच्य-भौत्येति नाम्नोल्लेख:ड८़ कृत:। देवीभागवते तु दशमो मेरुसावर्णि:, एकादशसूर्यसावर्णि:, द्वादशचन्द्रसावर्णि:, त्रयोदशरुद्रसावर्णि:, चतुर्दशविष्णुसावर्णिरितिड९़ प्रोक्त:।
मन्वन्तरविवेचनं विष्णुपुराणे श्रीमद्भागवतेऽपि च विस्तरेण विद्यते, किन्तु विष्णुपुराणोत्तंâ भागवतापेक्षयाऽपि विस्तृतम्। विष्णुपुराणमते प्रत्येकस्मिन् मन्वन्तरे पञ्च, भागवते तु षडधिकारिणो भवन्ति। ये तु भूतले विशिष्टकार्यसम्पादनार्थमागच्छन्ति, कृतकार्या निवर्तन्ते च। पुनद्र्वितीयस्य मन्वन्तरस्याधिकारिण आगच्छन्ति। एष्वधिकारिरूपेषु श्रीभगवतो वैष्णवीशक्तिरेव समर्था क्रियाशीला च भवति। विष्णुपुराणम्, एतानधिकारिण: विष्णुविभूतिमेव स्वीकरोति।ड१०़ विष्णुपुराणे एषामधिकारिणां नामानि च- मनु:, सप्तर्षय:, देवा:, इन्द्र:, मनुपुत्राड११़ इति। श्रीमद्भागवते तु षडधिकारिणां गणना कृता-
मन्वन्तरं मनुर्देवा मनुपुत्रा:ड१२़ सुरेश्वर:।
ऋषयोंऽशावतारश्च हरे: षड्विधमुच्यते।।
एषामधिकारिणां कार्याणि अतीव विशिष्टानि महत्त्वपूर्णानि च सन्ति। विष्णुपुराणानुसारं चतुर्युगसमाप्तौ वेदविप्लवे सति वेदानां प्रवर्तनं नितान्तमावश्यवंâ भवति। अत एव सप्तर्षयो भूतलमागत्य वेदप्रवर्तनं कुर्वन्ति। सप्तर्षय एव प्रत्येकस्मिन् मन्वन्तरे वेदप्रवर्तकाधिककारिणो भवन्ति।ड१३़ चतुर्युगान्ते जलप्लवनान्ते च पुन: कृतयुगादौ धर्ममर्यादास्थापनार्थं मनोर्जन्म भवति।
भागवतेऽपि मनोर्जन्मप्रयोजनमीदृशमेव प्रोक्तम्- चतुर्युगान्ते नष्टायां श्रुतौ सप्तर्षय: तपोभि: साक्षात्कुर्वन्ति, प्रजापालनादिकार्यं सम्पादयन्ति च।ड१४़ एवं च विष्णुभागवतयोर्मनूनामेकमेव कार्यं प्रतिपादितम्। मनुपुत्रै: क्षत्रियराजभिस्तात्पर्यम्। मनुपुत्रान्वर्थताऽनेन यदेते राजान: परम्परया मनुपुत्रा:, अथवा मनुप्रणीतव्यवस्थापद्धते: समाश्रयणं कुर्वन्ति। एवं च दण्डनीतिविधाने प्रजासंरक्षणकार्ये च सर्वथाकृतकृत्या भवन्ति। भागवतानुसारं प्रतिमन्वन्तरे हरेरंशावतारस्याप्युदयो धर्मसंरक्षणायाधर्म-विनाशाय च भवति। प्रत्येकस्मिन् काले विषमपरिस्थितावेव भक्तवत्सलो भगवान् स्वप्रतिज्ञानुसारमवतरति।ड१५़
अत एव भागवतेंऽशावतारस्य षष्ठाधिकारिस्वीकारस्यौचित्यं प्रतिभात्येव। निष्कर्षतस्तु द्वे अपि पुराणे विशिष्टसम्राङ्रूपेण मनुं स्वीकुरुत:। मन्वादिपञ्चाधिकारिणो विष्णो: सात्त्विकांशा: सन्ति जगत्स्थितिकरा:-
मनवो भूभुज: सेन्द्रा: देवा: सप्तर्षयस्तथा।
सात्त्विकोंऽश: स्थितिकरो जगतोड१६़ द्विजसत्तम।।
फलतो जगत्संरक्षणकार्ये सहायका: सर्वेऽधिकारिणो मनुना सहैवाविर्भवन्ति, स्वस्वकार्यं च सम्पादयन्ति। इत्थं मन्वन्तरविधानं लोकमङ्गलभावनाया विशिष्टं प्रतीकमस्ति। सुव्यवस्थितिं विना लोककयाणसमभावनैव नास्ति। मन्वन्तरं सुचारुलोकव्यवस्थानिर्धारणस्यैक: सुचारुसाधन:। विष्णुपुराणोक्तिर्भागवतेनापिड१७़ समर्थितास्ति।
आदित: पञ्चममनुपर्यन्तं सर्वेषां सम्बन्ध एकेनैव व्यक्तिना स्वीकृत:, स च मानवानामादि-पुरुष: स्यावम्भुवो मनु:। अस्यैव ज्येष्ठ: पुत्र: प्रियव्रत आसीत्। प्रियव्रतवंश एव विष्णुपुराणे स्वारोचिष-उत्तम-तामस-रैवतादय: परिगणिता:। तद्यथा-
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा।
प्रियव्रतान्वया ह्येते चत्वारो मनव:ड१८़ स्मृता:।।
विष्णुपुराण एतदेव संक्षिप्तं विवरणम्, किन्तु भागवते तु वैशिष्ट्यं प्रतीयते। तथा च- ‘‘अन्यस्यामपि जायायां त्रय: पुत्रा: आसन्- उत्तमस्तामसो रैवत इतिड१९़ मन्वन्तराधिपतय:’’। एतद् विशदं स्पष्टीकृतं यत् प्रियव्रतस्यापरायां जायायाम् एते त्रय: उत्पन्ना:। तात्पर्यमिदं यद् मन्वन्तर-परम्पराप्रवर्तक: स्वायम्भुवमनुरेव। तथा तेषामेव वंशधरा महनीयगरिमामयमनूपाधिधारणयोग्यताक्षमा आसन्। अत एवेदं पदमस्मिन् वंशे पञ्चममन्वन्तरपर्यन्तमवश्येव स्थिरमासीत्।
प्रत्येकमन्वन्तराधिपतीनां नामनिर्देशो विष्णु भागवतपुराणयोरुपलभ्यते। तत्र विष्णुपुराणोत्तंâ विवरणमतिविशदं सुव्यवस्थितंड२०़ चास्ति। भागवतेऽप्येतद् विवरणं विष्णुपुराणानुसार्येव।ड२१़ किन्तु मन्वन्तरातिरिक्तानामधिकारिणां परस्परं नामभेदोऽपि प्राप्यते। भागवते च प्रत्येकस्मिन् मन्वन्तरे हरेरंशावतारस्यापि निर्देश: कृत:। भगवान् स्वयमाविर्भूय तात्कालिकीं धार्मिकीमव्यवस्थां दूरीकरोति, जगन्मङ्गलं च साधयति, येन प्राणिनां कल्याणं भवति। निष्कर्षतस्तु सर्वेषु मन्वन्तरेषु देवरूपेण स्थिता भगवतो विष्णोरनुपमसत्त्वप्रधाना शक्तिरेव संसारस्थितौ तस्याधिष्ठात्री भवति। तथा हि-
विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थितौ स्थिता।
मन्वन्तरेष्वशेषेषु देवत्वेनाधितिष्ठति।।ड२२़
प्रतिमन्वन्तरे विष्ण्वंशानां विवरणं विष्णुपुराणे विस्तारितम्।ड२३़ वर्तमानस्य मन्वन्तरस्याराध्यो देवो वामन अदित्यां कश्यपादभूदिति विष्णुभागवतयो: साम्यं दृश्यते।
मन्वन्तरेऽत्र सम्प्राप्ते तथा वैवस्वते द्विज।
वामन: कश्यपाद्विष्णुरदित्यां सम्बभूव ह।।ड२४़
भागवते च- अत्रापि भगवज्जन्म कश्यपाददितेरभूत्।
आदित्यानामवरजो विष्णुर्वामनरूपधृक्।।ड२५़
मन्वन्तराधिकारिण:
विष्णुपुराणे
श्रीमद्भागवते
१.
स्वायंभुवमनु:
१.
स्वायंभुवमनु:,
तोष:, प्रतोष:, सन्तोषादय:, तुषितनामा देवा:।
मरीच्यादय: सप्तर्षय:,
प्रियव्रतोत्तानपादौ पुत्रौ
मरीच्यादय:, सप्तर्षय:,
प्रियव्रतोत्तानपादौ पुत्रौ
२.
स्वारोचिषमनु:-
२.
स्वारोचिषमनु:-
पारावततुषितगणे देवता,
तुषितादिदेवगण:,
विपश्चिदिन्द्र:,
रोचननामेन्द्र:,
ऊर्जस्तम्भ:, प्राण:, वात:, पृषभ:, निरय:, परीवान्, सप्तर्षय:,
ऊर्जस्तम्भादय: सप्तर्षय:,
चैत्र:, किपुरुषादय: पुत्रा:,
द्युमान्, सुषेण:, रोचिष्मान् इत्यादय: पुत्रा:।
३.
उत्तममनु:-
३.
उत्तममनु:-
सुधाम:, सत्य:, जप:,ड२६़ प्रवर्तन:, वशवर्तिनो देवा:
सत्य:, वेदश्रुत:, भद्रादयो देवगणा:,
सुशान्तिर्नाम देवेन्द्र:,
सत्यजिदिन्द्र:
वशिष्ठसप्तपुत्रा:, सप्तर्षय:,
प्रमदादिसप्तवसिष्ठपुत्रा: सप्तर्षय:
अत:, परशु:, दीप्तादय: पुत्रा:,
पवन:, सञ्जय:, यज्ञहोत्रादय: पुत्रा:
४.
तामसमनु:-
४.
तामसमनु:-
सुपार:, हरि:, सत्य:, सुधीति:,
सत्य:, हरि:, वीरनामा:, देवगणा:
देववर्ग:, शिविरिन्द्र:
वैधृतिनामपि देवगण:, त्रिशिरेन्द्र:
ज्योतिर्धाम, पृथु:, काव्य:, चैत्र:, अग्नि:, वनक:, पीवर:, सप्तर्षय:,
ज्योतिर्धामादय: सप्तर्षय:
नर:, ख्याति:, केतुरूप:, जानुजङ्घादय:
पुत्रा:।
नर:, ख्याति:, केत्वादयो
दशपुत्रा:।
५.
रैवतमनु:-
५.
रैवतमनु:-
अमिताभ:, भूतरय:, वैकुण्ठ:, सुमेधादयो देवगण:
भूतस्यादिदेवगण:,
विभुरिन्द्र:,
विभुरिन्द्र:,
हिरण्यरोमा, वेदश्री:, ऊध्र्वबाहु:,
हिरण्यरोमा, वेदशिरा, ऊध्र्वबाह्वादय:
वेदबाहु:, सुधामा, पर्जन्य:, महामुनि:- एते सप्तर्षय:
सप्तर्षय:,
बलबन्धु:, सम्भाव्य:, सत्यकादय: पुत्रा:
अर्जुन:, बलि:, विन्ध्यादय: पुत्रा:।
६.
चाक्षुषमनु:-
६.
चाक्षुषमनु:-
आप्य:, प्रसूत:, भव्य:, पृथुक:, लेख इत्यादयो देवगणा:,
आप्यादयो देवगणा:
मनोजव:, नामेन्द्र:,
मन्त्रद्रुमेन्द्र:,
सुमेधा, विरजा, हविष्मान्,
हविष्मान्, वीरकादय:
उत्तम:, मधु:, अतिनामा, सहिष्णु:
एते सप्तर्षय:
सप्तर्षय:।
अरु:, पुरु:, शतद्युम्नादय: पुत्रा:।
पुरु, पुरुष:, सुद्युम्नादय: पुत्रा:।
७.
वैवस्वतमनु: (श्राद्धदेव:)-
७.
वैवस्वत (श्राद्धदेव:) मनु:-
आदित्य:, वसु:, रुद्रादयो देवगणा:
आदित्य:, वसु:, रुद्र:, विश्वेदेव:, मरुद्गण:
अश्विनीकुमार:, क्रभ्वादयो देवगणा:
पुरन्दरेन्दु:
पुरन्दरेन्द्र:
वसिष्ठ:, काश्यप:, अत्रि:, जमदग्नि:, गौतम:, विश्वामित्र:, भरद्वाज:, सप्तर्षय:, इक्ष्वाकु:, नृग:, धृष्ट:, शर्याति:, नरिष्यन्त:, नाभाग:, अरिष्ट:, करुष:, पृषध्न:, पुत्रा:।
वसिष्ठ:, कश्यप:, अत्रि:, जमदग्नि:, गौतम:, विश्वामित्र:, भरद्वाज:, सप्तर्षय: इक्ष्वाकु:, नभग:, धृष्ट:, शर्याति:, नरिष्यन्त:, नाभाग:, दिष्ट:, करुष:, पृषध्न:, वसुमान् पुत्रा:।
८.
सावर्णिर्मनु: -
८.
सावर्णिर्मनु: -
सुतप:, अमिताभ:, मुख्यगणो देवा:, दीप्तिमान् , गालव:, राम:, कृप:,
सुतपा, विरज:, अमृतप्रमेत्यादयो
देवगणा:
गालव:, दीप्तिमान्
अश्वत्थामा, व्यास:, ऋष्यशृङ्गादय: सप्तर्षय:।
परशुराम:, अश्वत्थामा, कृपाचार्य:, ऋष्यशृङ्ग:, व्यास एते सप्तर्षय:।
बलिरिन्द्र:,
बलिरिन्द्र:,
विरजा, उर्वरीवान्, निर्मोकादय:
पुत्रा:।
निर्मोक: विरजस्कादय:
पुत्रा:।
९.
दक्षसावर्णिर्मनु: -
९.
दक्षसावर्णिर्मनु: -
पार:, मरीचिगर्भ:, सुधर्मादयो
देवगणा:।
पार:, मरीचिगर्भादयो देवगणा:।
अद्भुतनामेन्द्र:,
अद्भुतनामेन्द्र:,
सवन:, द्युतिमान्, भाव्य:, वसु:, मेधातिथि:, ज्योतिष्मान्, सत्य एते सप्तर्षय:।
द्युतिमानादय: सप्तर्षय:।
धृतिकेतु:, द्युतिकेतु:, पञ्चहस्त:, निरामय:, पृथुश्रवादय: पुत्रा:।
भूतकेतु:, दीप्तिकेत्वादय: पुत्रा:।
सुक्षेत्र:, उत्तजा:, भूरिषेणादय: पुत्रा:
भूरिषेणादय: पुत्रा:।
१०.
ब्रह्मसावर्णिर्मनु: -
१०.
ब्रह्मसावर्णिर्मनु: -
सुधामा, विशुद्धनायकौ देवगणौ, शान्तिरिन्द्र:,
सुवासन:, विरुद्धादयो देवगणा:, शम्भुरिन्द्र:,
हविष्मान्, सुकृत:, सत्य:, तपोमूर्ति:, नाभाग:, अप्रतिमौजा:, सत्यकेतु:, इति सप्तर्षय:।
हविष्मान् , सुकृति:, सत्य:, जय:, मूर्ति:, आदयस्सप्तर्षय:।
११.
धर्मसावर्णिर्मनु: -
११.
धर्मसावर्णिर्मनु: -
विहङ्गम:, कामगम:, निर्वाणरति:, देवगणा:
विहङ्गम:, कामगम:, निर्वाणरुचि:, इत्यादयो देवगणा:
वृषानामेन्द्र:,
वैधृतिर्नामेन्द्र:,
नि:स्वर:, अग्नितेजा:, वपुष्मान् , घृणि:, आरुणि:, हविष्मान् , अनघ:, सप्तर्षय:।
अरुणादय: सप्तर्षय:
सर्वत्रग:, सुधर्मा, देवानीकपुत्रा:,
सत्यधर्मादयो दशपुत्रा:
१२.
रुद्रसावर्णिर्मनु: -
१२.
रुद्रसावर्णिर्मनु: -
हरित:, रोहित:, सुमना, सुकर्मा, सुराप इति देवगणा:।
हरितादिदेवगणा:।
ऋतधामा नामेन्द्र:,
ऋतधामा नामेन्द्र:,
तपस्वी, सुतपा, तपोमूर्ति:, तपोरति:, तपोधृति:, तपोद्युति:, तपोधनादय: सप्तर्षय:।
तपोमूर्ति:, तपस्वी, आग्नीध्रकादि सप्तर्षय:।
देववानुपदेवश्रेष्ठा: पुत्रा:
देववानुपदेवश्रेष्ठा: पुत्रा:
१३.
रुचिर्मनु: -
१३.
देवसावर्णिर्मनु: -
सुत्रामा, सुकर्मा, सुधर्मादिदेवगणा:, दिवस्पतिरिन्द्र:,
सुकर्म:, सुत्रामादयो देवगणा:,
दिवस्पतिरिन्द्र:,
निर्मोह:, तत्त्वदर्शी,
निर्मोक:, तत्त्वदर्शादय:
निष्प्रकम्प:, निरुत्सुक:, धृतिमान् , अव्यय:, सुतप्त:, सप्तर्षय:।
सप्तर्षय:।
चित्रसेन:, विचित्रादय: पुत्रा:।
चित्रसेन:, विचित्रसेनादय: पुत्रा:।
१४.
भौमर्मनु: -
१४.
इन्द्रसावर्णिर्मनु: -
चाक्षुष:, कनिष्ठ:, पवित्र:, भ्राजिक:, वाचावृद्धादिदेवगणा:,
पवित्र:, चाक्षुषादिदेवगणा:।
शुचिरिन्द्र:,
शुचिरिन्द्र:
अग्निबाहु:, शुचिशुक्र:, मागध:, आग्नीध्र:, युक्त:, जित:, एते सप्तर्षय:।
अग्निबाहु:, शुचि:, शुद्ध:, मगधादय:, सप्तर्षय:।
उरु:, गम्भीरबुद्ध्यादय: पुत्रा:।
उरु:, गम्भीरबुद्ध्यादय: पुत्रा:।
श्रीमद्भागवते प्रतिमन्वन्तराधिकारिप्रसङ्गे भगवदंशस्याविर्भावोऽपि वर्णित:।ड२७़ विष्णुपुराणे तु स्वायंभुवं प्रारभ्य वैवस्वतमन्वन्तरपर्यन्तस्यांशावतारस्यैवोल्लेख: कृत:।ड२८़
उपर्युत्तंâ नामसादृश्यं विलोक्येदं स्पष्टं प्रतीयते, यत् प्रायो द्वयो: पुराणयोर्वर्णने सादृश्यमेव। वैभिन्यं तु यथा विष्णुपुराणे प्रथमे मन्वन्तरे देवर्षीन्द्राणां वर्णनं स्पष्टतया न प्राप्यते। एतदुत्तंâ विष्णुपुराणे-
‘कल्पादादेव स्वायंभुवमन्वन्तरस्य देवर्षयस्सम्यक्ड२९़ प्रोक्ता:’ इति।
तृतीये मन्वन्तरे इन्द्रनामभेदो मनुपुत्रनामभेदश्च। तृतीये देव-इन्द्र-मनुपुत्राणां वैभिन्न्यम्। चतुर्थे देवेन्द्रयोर्भेद:। पञ्चमे मनुपुत्रनामभेद:, षष्ठे इन्द्रनामभेद:। दशमे देवगणनामभेद:, इन्द्रनामभेदश्च। एकादशे इन्द्रनामभेद:। शेषाणि सर्वाणि सदृशान्येव। सूर्यसिद्धान्ते, विष्णुपुराणे मन्वन्तरवर्णनं मुख्यरूपेण कृतम्।
ड१़. तिस¸णां त्रसरेणूनां भेदने सूर्यांशुजालानां य: समयो व्यत्येति स त्रुटिरित्युच्यते।
ड२़. वि.पु. १/३/१८
ड३़. भा. ३/११/२४
ड४़. वायु. ५७/३३-५५
ड५़. सूर्यसिद्धान्त: १/१८-१९
ड६़. वि.पु. ३/२/३६-४०
ड७़. भा. ८/१/१३ अध्याय:
ड८़. वायु. पूर्वार्ध ६२/३-४, मत्स्य. ९/१५, मार्वâ. अध्याय: ९४ तथा ९९
ड९़. देवीभा. १०/१३/२५-३०
ड१०़. वि.पु. ३/१४/६
ड११़. वि.पु. ३/२/४९
ड१२़. भा. १२/७/१५
ड१३़. वि.पु. ३/२/४५-४६
ड१४़. भा. ८/१४/४-६
ड१५़. भा. १२/७/१५
ड१६़. वि.पु. ३/२/५३
ड१७़. भा. ८/१३
ड१८़. वि.पु. ३/१/२४
ड१९़. भा. ५/१/१८
ड२०़. वि.पु. ३/१-२
ड२१़. भा. ८/५-१३
ड२२़. वि.पु. ३/१/३५
ड२३़. वि.पु. ३/१/३६-४५
ड२४़. वि.पु. ३/१/४२
ड२५़. भा. ८/१३/६
ड२६़. भा. ४/१/६-९
ड२७़. भा. ८/१३
ड२८़. वि.पु. २/१/३५-४३
ड२९़. वि.पु. ३/१/८
No comments:
Post a Comment